|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.118. अध्यायः 118
Mahabharata - Drona Parva - Chapter Topics
सात्यकिना सुदर्शननाम्नो राज्ञो वधः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-118-0x(4560)(49698)
द्रोणं स जित्वा पुरुषप्रवीर--
स्तथैव हार्दिक्यमुखांस्त्वदीयान्।
प्रहस्य सूतं वचनं बभाषे
शिनिप्रवीरः कुरुपुङ्गवाग्र्य॥ 7-118-1(49699)
निमित्तमात्रं वयमद्य सूत
दग्धा रथाः केशवफल्गुनाभ्याम्।
हतान्निहन्मेह नरर्षभेण
वयं सुरेशात्मसमुद्भवेत॥ 7-118-2(49700)
सञ्जय उवाच। 7-118-3x(4561)
तमेवमुक्त्वा शिनिपुङ्गवस्तदा
महामृधे सोऽग्र्यधनुर्धरोऽरिहा।
किरन्समन्तात्सहसा शरान्बली
समापतच्छयेन इवामिषाशया॥ 7-118-3(49701)
तं यान्तमश्वैः शशिशङ्खवर्णै--
र्विगाह्य सैन्यं पुरुषप्रवीरम्।
नाशक्नुवन्वारयितुं समन्ता--
दादित्यरश्मिप्रतिमं रथाग्र्यम्॥ 7-118-4(49702)
असह्यविक्रान्तमदीनसत्वं
सर्वे गणा भारत ये त्वदीयाः।
सहस्रनेत्रप्रतिमप्रभावं
दिवीव सूर्यं जलदव्यपाये॥ 7-118-5(49703)
अमर्षपूर्णस्त्वतिचित्रयोधी
शरासनी काञ्चनवर्मधारी।
सुदर्शनः सात्यकिमापतन्तं
न्यवारयद्राजवरः प्रसह्य॥ 7-118-6(49704)
तयोरभूद्भारतसम्प्रहारः
सुदारुणस्तं समतिप्रशंसन्।
योधास्त्वदीयाश्च हि सोमकाश्च
वृत्रेन्द्रयोर्युद्धमिवामरौघाः॥ 7-118-7(49705)
शरैः सुतीक्ष्णैः शतशोऽभ्यविध्य--
त्सुदर्शनः सात्वतमुख्यमाजौ।
अनागतानेव तु तान्पृषत्कां--
श्चिच्छेद राजञ्शिनिपुङ्गवोऽपि॥ 7-118-8(49706)
तथैव शक्रप्रतिमोऽपि सात्यकिः
सुदर्शने यान्क्षिपति स्म सायकान्।
द्विधा त्रिधा तानकरोत्सुदर्शनः
शरोत्तमैः स्यन्दनवर्यमास्थितः॥ 7-118-9(49707)
तान्वीक्ष्य बाणान्निहतांस्तदानीं
सुदर्शनः सात्यकिबाणवेगैः।
क्रोधाद्दिधक्षन्निव तिग्मतेजाः
शरानमुञ्चत्तपनीयचित्रान्॥ 7-118-10(49708)
पुनः स बाणैस्त्रिभिरग्निकल्पै--
राकर्णपूर्णैर्निशितैः सुपुङ्खैः।
विव्याध देहावरणं विभिद्य
ते सात्यकेराविविशुः शरीरम्॥ 7-118-11(49709)
तथैव तस्यावनिपालपुत्रः
सन्धाय बाणैरपरैर्ज्वलद्भिः।
आजघ्निवांस्तान्रजतप्रकाशां--
श्चतुर्भिरश्वांश्चतुरः प्रसह्य॥ 7-118-12(49710)
तथा तु तेमाभिहतस्तरस्वी
नप्ता शिनेरिन्द्रसमानवीर्यः।
सुदर्शनस्येषुगणैः सुतीक्ष्णै--
र्हयान्निहत्याशु ननाद नादम्॥ 7-118-13(49711)
अथास्य सूतस्य शिरो निकृत्य
भल्लेन शक्राशनिसन्निभेन।
सुदर्शनस्यापि शिनिप्रवीरः
क्षुरेण कालानलसन्निभेन॥ 7-118-14(49712)
सकुण्डलं पूर्णशशिप्रकाशं
भ्राजिष्णु वक्त्रं विचकर्त देहात्।
यथा पुरा वज्रधरः प्रसह्य
बलस्य सङ्ख्येऽतिबलस्य राजन्॥ 7-118-15(49713)
निहत्य तं पार्थिवपुत्रपौत्रं
रणे यदूनामृषभस्तरस्वी।
मुदा समेतः परया महात्मा
रराज राजन्सुरराजकल्पः॥ 7-118-16(49714)
ततो ययावर्जुनमेव वीरो
निवार्य सैन्यं तव मार्गणौघैः।
सदश्वयुक्तेन रथेन राजँ--
ल्लोकं विसिस्मापयिषुर्नृवीरः॥ 7-118-17(49715)
तत्तस्य विस्मापयनीयमग्र्य--
मपूजयन्योधवराः समेताः।
प्रवर्तमानानिषुगोचरेऽरी--
न्ददाह बाणैर्हुतभुग्यथैव॥ ॥ 7-118-18(49716)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे अष्टादशाधिकशततमोऽध्यायः॥ 118 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|